प्रथमः प्रकाशः
- धर्माधर्माकाश-पुद्गल-जीवास्तिकाया द्रव्याणि।
- कालश्च।
- गुणपर्यायाश्रयो द्रव्यम्।
- गत्यसाधारणसहायो धर्मः।
- स्थित्यसाधारणसहायोऽधर्म:।
- अवगाहलक्षण आकाशः।
- लोकोऽलोकश्च।
- षड्द्रव्यात्मको लोकः।
- जीवपुद्गलयोर्विविधसंयोगैः स विविधरूपः।
- संयोगश्चापश्चानुपूर्विकः।
- कर्मशरीरोपग्रहरूपेण त्रिविधः।
- चतुर्धा तत्स्थितिः।
- शेषद्रव्यशून्यमाकाशमलोकः।
- स्पर्शरसगन्धवर्णवान् ग्रहणगुणः पुद्गलः।
- शब्द-बन्ध-सौक्षम्य-स्थौल्य-संस्थान-भेद-तमश्छायातपोद्योत-प्रभावांश्च ।
- परमाणुः स्कन्धश्च ।
- अविभाज्यः परमाणुः।
- तदेकीभावः स्कन्धः।
- तद् भेदसंघाताभ्यामपि ।
- स्निग्धरूक्षत्वाद् अजघन्यगुणानाम् ।
- द्व्यधिकादिगुणत्वे सदृशानाम् ।
- कालः समयादि: ।
- वर्तनापरिणामक्रियापरत्वापरत्वादिभिर्लक्ष्यः ।
- आद्यत्रीणि एकद्रव्याणि अगतिकानि ।
- असंख्येयाः प्रदेशा धर्माधर्मलोकाकाशैकजीवानाम् ।
- अलोकस्यानन्ताः ।
- संख्येयाऽसंख्येयाश्च पुद्गलानाम् ।
- न परमाणोः ।
- कालोऽप्रदेशी ।
- बुद्धिकल्पितो वस्त्वंशो देशः ।
- निरंशः प्रदेशः ।
- कृत्स्नलोकेऽवगाहो धर्माधर्मयोः ।
- एकप्रदेशादिषु विकल्प्यः पुद्गलानाम् ।
- असंख्येयभागादिषु जीवानाम् ।
- कालः समयक्षेत्रवर्ती ।
- सहभावी धर्मो गुणः ।
- सामान्यो विशेषश्च ।
- अस्तित्व-वस्तुत्व-द्रव्यत्व-प्रमेयत्व-प्रदेशवत्त्व-अगुरूलघु-त्वादिः सामान्यः ।
- गतिस्थित्यवगाहवर्तनाहेतुत्व-स्पर्शरसगन्धवर्ण-ज्ञानदर्शन-सुख-वीर्य-चेतनत्वाचेतनत्व-मूर्त्तत्वाऽमूर्त्तत्वादिर्विशेषः ।
- पूर्वोत्तराकारपरित्यागादानं पर्यायः ।
- व्यञ्जनार्थभेदेन स्वभाव-विभावभेदेन चास्य द्वैविध्यम् ।
- स्थूलः कालान्तरस्थायी शब्दानां संकेतविषयो व्यञ्जनपर्यायः ।
- सूक्ष्मो वर्तमानवर्ती अर्थपरिणामः अर्थपर्यायः ।
- परनिमित्तानपेक्षः स्वभावपर्यायः ।
- परनिमित्तापेक्षो विभावपर्यायः ।
- एकत्व-पृथक्त्व-संख्या-संस्थान-संयोग-विभागास्तल्लक्षणम्