तृतीयः प्रकाशः
- जीवा द्विधा ।
- संसारिणः सिद्धाश्च ।
- संसारिणस्त्रसस्थावराः ।
- पृथिवी - अप्-तेजो-वायु-वनस्पतिकायिका एकेन्द्रियाः स्थावराः ।
- द्वीन्द्रियादयस्त्रसाः ।
- समनस्काऽमनस्काश्च ।
- नारकदेवा गर्भजतिर्यङ्मनुष्याश्च समनस्काः ।
- अन्येऽमनस्काः ।
- पर्याप्ताऽपर्याप्तादयोऽपि ।
- भवारम्भे पौद्गलिकसामर्थ्यनिर्माणं पर्याप्तिः ।
- आहार- शरीर-इन्द्रिय-उच्छ्वासनिः श्वास- भाषा-मनांसि ।
- जीवनशक्तिः प्राणाः ।
- इन्द्रियबलोच्छ्वासनिः श्वासाऽऽयूंषि ।
- गर्भोपपातसंमूर्च्छनानि जन्म ।
- जराय्वण्डपोतजानां गर्भः ।
- देवनारकाणामुपपातः ।
- शेषाणां संमूर्च्छनम् ।
- सचित्ताऽचित्त-संवृत-विवृतास्तन्मिश्राश्च योनयः ।
- अचेतनः अजीवः ।
- धर्माधर्माकाशकालपुद्गलास्तद्भेदाः ।
- इति- जीवाजीवभेदनिर्णयात्मकस्तृतीयः प्रकाशः