नवमः प्रकाशः
- पापाचरणादात्मरक्षा दया ।
- सदुपदेशविपाकचिन्तनप्रत्याख्यानादयोऽस्या उपाया: ।
- लोके प्राणरक्षापि ।
- मोहमिश्रितत्वान्नात्मसाधनी ।
- असंयमपोषकत्वाद बलप्रयोगादेः संभवाच्च ।
- क्वचिदियं प्रसंगजापि ।
- रागद्वेषपरिणतिमोहः ।
- नायं स्वपरप्रतिबन्धी ।
- स्वसामग्रीसापेक्षाऽस्य वृत्तिः ।
- व्यष्टिसमष्ट्यादिष्वपि ।
- असंयमसुखाभिप्रायो रागः ।
- दुःखाभिप्रायो द्वेषः ।
- रागद्वेषराहित्यं माध्यस्थ्यम् ।
- हिंसादेरनिवृत्तिरसंयमः ।
- तद्विरतिः संयमः ।
- स्वपरोपकारार्थवितरणं दानम् ।
- संयमोपवर्धकं निरवद्यम् ।
- सहयोगदानमुपकारः ।
- लौकिको लोकोत्तरश्च ।
- आत्मविकासकृल्लोकोत्तरः ।
- तदितरस्तु लौकिकः ।
- इष्टसंयोगाऽनिष्टनिवृत्तेराह्लादः सुखम् ।
- तद्विपर्ययो दुःखम् ।
- तच्चात्मविकासावरोधि हेयम् ।
दयादानोपकारादिस्वरूपनिर्णय नामक नौवां प्रकाश समाप्त ।